|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.240. अध्यायः 240
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति भद्राश्वकेतुमालादिखण्डानां सुकृतिनां भोगस्थानत्वादिप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्सर्वभूतेश पुरमर्दन शङ्कर।
श्रुतं पापकृतां दुःखं यमलोके वरप्रद॥ 13-240-1(90889)
श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम्।
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर॥ 13-240-2(90890)
कथिताः कीदृशा लोका नृणां सुकृतकारिणाम्।
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे॥ 13-240-3(90891)
महेश्वर उवाच। 13-240-4x(7659)
शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने।
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः॥ 13-240-4(90892)
मेरुं हि कनकात्मानं परितः सर्वतोदिशम्।
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा॥ 13-240-5(90893)
जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः।
तेषु भूत्वा स्वयंभूताः प्रदृश्यते यतस्ततः॥ 13-240-6(90894)
योजनानां सहस्रं च एकैकं मानमात्रया।
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः॥ 13-240-7(90895)
आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः।
द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः।
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान्॥ 13-240-8(90896)
कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः।
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः॥ 13-240-9(90897)
सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः।
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः॥ 13-240-10(90898)
स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः।
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः॥ 13-240-11(90899)
मनोहरा महाभागाः सर्वे ललितकुण्डलाः।
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः॥ 13-240-12(90900)
नानाभावसमायुक्ता यौवनस्थाः सदैव तु।
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा॥ 13-240-13(90901)
मनोनुकूला मधुरा भोगिनामुपकल्पिताः।
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा॥ 13-240-14(90902)
एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम्।
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः॥ 13-240-15(90903)
कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये।
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने॥ 13-240-16(90904)
सर्वतो रमणीयं च सर्वत्र कुसुमान्विम्।
यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः।
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः॥ 13-240-17(90905)
तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः।
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये॥ 13-240-18(90906)
स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः।
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते॥ 13-240-19(90907)
एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि।
अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये।
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम्॥ 13-240-20(90908)
विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः।
अप्सरोदानवा देवा यथाक्रममुदाहृताः॥ 13-240-21(90909)
तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः।
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः॥ 13-240-22(90910)
स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च।
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा॥ 13-240-23(90911)
तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते।
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम्॥ 13-240-24(90912)
जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते।
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा॥ 13-240-25(90913)
अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम्।
तपोविशेषज्जायन्ते यथा कर्म्णि भामिनि॥ 13-240-26(90914)
देवलोके प्रवृत्तिस्तु तेषामेव विधीयते।
न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः॥i 13-240-27(90915)
तत्र भोगमनिर्देश्यममृतत्वं च विद्यते।
विमानगमनं नित्यमप्सरोगणसेवितम्॥ 13-240-28(90916)
एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते।
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम्॥ 13-240-29(90917)
तस्मान्न वर्णये देवि विदितं च त्वया शुभे।
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम्॥ ॥ 13-240-30(90918)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 240 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|